मुख्य›दुर्गा सप्तशती›दुर्गा सप्तशती तृतीय अध्याय

सेनापतियों सहित महिषासुर वध

देवी महिषासुर के सेनापतियों चिक्षुर, चामर और बाकी असुर योद्धाओं का एक-एक करके वध करती हैं। फिर महिषासुर स्वयं भैंसे के रूप में लड़ने आता है और बार-बार रूप बदलता है: सिंह, खड्गधारी पुरुष और हाथी। अन्त में देवी उसे पैरों तले दबाकर उसका सिर काट देती हैं।

सेनापतियों सहित महिषासुर वध
अध्याय३/१३४४ श्लोक

ध्यान

ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्॥

मूल पाठ

  1. ॐ ऋषिरुवाच॥ १ ॥

  2. निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥ २ ॥

  3. स देवीं शरवर्षेण ववर्ष समरेऽसुरः।यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः॥ ३ ॥

  4. तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान्।जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्॥ ४ ॥

  5. चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम्।विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः॥ ५ ॥

  6. सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः।अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः॥ ६ ॥

  7. सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि।आजघान भुजे सव्ये देवीमप्यतिवेगवान्॥ ७ ॥

  8. तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन।ततो जग्राह शूलं स कोपादरुणलोचनः॥ ८ ॥

  9. चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात्॥ ९ ॥

  10. दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत।तच्छूलं शतधा तेन नीतं स च महासुरः॥ १० ॥

  11. हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।आजगाम गजारूढश्चामरस्त्रिदशार्दनः॥ ११ ॥

  12. सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम्।हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम्॥ १२ ॥

  13. भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः।चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत्॥ १३ ॥

  14. ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः।बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा॥ १४ ॥

  15. युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ।युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः॥ १५ ॥

  16. ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।करप्रहारेण शिरश्चामरस्य पृथक्कृतम्॥ १६ ॥

  17. उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः।दन्तमुष्टितलैश्चैव करालश्च निपातितः॥ १७ ॥

  18. देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम्।वाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम्॥ १८ ॥

  19. उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्।त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी॥ १९ ॥

  20. बिडालस्यासिना कायात्पातयामास वै शिरः।दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम्॥ २० ॥

  21. एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः।माहिषेण स्वरूपेण त्रासयामास तान् गणान्॥ २१ ॥

  22. कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।लाङ्गूलताडितांश्चान्याञ्छृङ्गाभ्यां च विदारितान्॥ २२ ॥

  23. वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।निःश्वासपवनेनान्यान् पातयामास भूतले॥ २३ ॥

  24. निपात्य प्रमथानीकमभ्यधावत सोऽसुरः।सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका॥ २४ ॥

  25. सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च॥ २५ ॥

  26. वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत।लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः॥ २६ ॥

  27. धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः।श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः॥ २७ ॥

  28. इति क्रोधसमाध्मातमापतन्तं महासुरम्।दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत्॥ २८ ॥

  29. सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम्।तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे॥ २९ ॥

  30. ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः।छिनत्ति तावत्पुरुषः खड्गपाणिरदृश्यत॥ ३० ॥

  31. तत एवाशु पुरुषं देवी चिच्छेद सायकैः।तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः॥ ३१ ॥

  32. करेण च महासिंहं तं चकर्ष जगर्ज च।कर्षतस्तु करं देवी खड्गेन निरकृन्तत॥ ३२ ॥

  33. ततो महासुरो भूयो माहिषं वपुरास्थितः।तथैव क्षोभयामास त्रैलोक्यं सचराचरम्॥ ३३ ॥

  34. ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम्।पपौ पुनः पुनश्चैव जहासारुणलोचना॥ ३४ ॥

  35. ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः।विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान्॥ ३५ ॥

  36. सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः।उवाच तं मदोद्धूतमुखरागाकुलाक्षरम्॥ ३६ ॥

  37. देव्युवाच॥ ३७ ॥

  38. गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः॥ ३८ ॥

  39. ऋषिरुवाच॥ ३९ ॥

  40. एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम्।पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्॥ ४० ॥

  41. ततः सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्ततः।अर्धनिष्क्रान्त एवासीद्1देव्या वीर्येण संवृतः॥ ४१ ॥

  42. अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः।तया महासिना देव्या शिरश्छित्त्वा निपातितः॥ ४२ ॥

  43. ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।प्रहर्षं च परं जग्मुः सकला देवतागणाः॥ ४३ ॥

  44. तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः।जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः॥ ॐ॥ ४४ ॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्येमहिषासुरवधो नाम तृतीयोऽध्यायः॥ ३॥उवाच ३, श्लोकाः ४१, एवम् ४४, एवमादितः॥